Prachi Prajna (Jun 2022)

धातोः स्वरूपविवरणम् - एका समीक्षा

  • Soma Pramanick

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 9

Abstract

Read online

तिङन्तपदस्य या प्रकृतिः सा एव धातुपदेनाभिधीयते। धातुः क्रियायाः वाचकः। क्रियासम्बन्धे शौनकादयः प्राचीनाः ऋषय अवदन्- क्रियावाचकमाख्यातं लिङ्गतो न विशिष्यते। त्रीनत्र पुरुषान् विद्यात् कालतस्तु विशिष्यते॥ धातुः द्विविधः सकर्मकः अकर्मकश्च। एतयोर्मध्ये फलविशिष्टव्यापारबोधकः धातुः सकर्मकः। फलेन अविशेषितः केवलव्यापारबोधको धातुरेव अकर्मकः धातोः फलावच्छिन्नव्यापारबोधकत्वेनैव सकर्मकत्वम्, तदबोधकत्वे चाकर्मकत्वम्, इति वैयाकरणसम्प्रदाये उक्तम्। अत एव दृश्यते यत् व्यापारबोधकत्वविषये समानार्थकत्वेऽपि फलावच्छिन्नव्यापारस्य केवलव्यापारस्य चेति उभयस्य भेदवशात् धातवः द्विविधाः भवितुमर्हन्ति। सकर्मकाः अकर्मकाश्च।भट्टोजिदीक्षितस्यापि उक्तिरस्ति- फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातुस्तयोर्धर्मिभेदे सकर्मक उदाहृतः॥ यस्याः क्रियायाः कर्म विद्यते सा सकर्मिका, यस्याः च क्रियायाः कर्म न विद्यते सा अकर्मिका इत्युच्यते। प्रत्येकं क्रियाया एव एकं फलं व्यापारश्च विद्यते। येन उद्देश्येन क्रियायाः प्रवृत्तिर्भवति तत् फलमित्युच्यते। यच्च तस्य फलस्य जनकः असौ व्यापार इत्युच्यते। यस्मिन् स्थले फलं व्यापारश्च कर्तरि एव निबद्धः तिष्ठति सा क्रिया अकर्मिका इत्युच्यते। यथा-असौ हसति। अस्मिन् स्थले हसनक्रिया अकर्मिका। यतः तस्याः क्रियायाः फलं व्यापारश्च कर्तरि एव विद्यमानम्। यस्मिन् स्थले कर्तृभिन्ने अन्यस्मिन् कस्मिंश्चित् पदार्थे फलं तिष्ठति, तत्र क्रियायाः सकर्मकत्वं भवेत्। यथा- देवदत्तः ओदनं पचति। अत्र अधिश्रयणात् आरभ्य स्थाल्यपकर्षणं यावत् पाकक्रियायाः व्यापारो विस्तृतो विद्यते। पदार्थस्य विक्लित्तिरूपिणी शिथिलता तस्य फलम्। इयं शिथिलता विक्लित्तिर्वा कर्तृभिन्ने अन्यस्मिन् पदार्थे ओदनरूपे विद्यते इति पाकक्रिया सकर्मिका। अत एव धातवः त्रिविधाः अकर्मकाः, सकर्मकाः, द्विकर्मकाश्च। अस्माकं तु मतेन धातवस्तु चतुर्विधाः भवन्ति। बोपदेवस्य मतेन उक्तानां दश लकाराणां मध्ये प्रत्येकस्मिन् एव अष्टादश (18) विभक्तयो भवन्ति। पाणिनिस्तु तिप्-तस्-झि-सिप्-थस्-थ-मिब्-वस्-मस् इत्यादि अष्टादशविभक्ति-निर्देश-पूर्वकं तेषां स्थले क्रमशः अशीत्य-धिकशतं (180) विभक्तीनाम् आदेशविधानं कृतवान्। यद्वा भवतु, दशलकाराणां प्रत्येकं प्रथमं नवविभक्तयः परस्मैपदीयाः अवशिष्टाश्च नव आत्मनेपदीयाः। उक्तेषु प्रत्येकं नव-विभक्तिषु प्रथमत्रयं प्रथमपुरुषः, द्वितीयत्रयं मध्यमपुरुषः, तृतीयत्रयं च उत्तमपुरुषनाम्ना प्रसिद्धाः। उक्तेषु त्रिषु पुरुषेषु मध्ये ऊत्तमपुरुषः अस्मदर्थे, मध्यम-पुरुषः युष्मदर्थे प्रथमपुरुषश्च अस्मद्युष्मद्व्यतिरिक्ते विषये नियमिताः भवन्ति। प्रत्येकं पुरुषस्य मध्ये एकवचन-द्विवचन-बहुवचन-रूप-भेदो विद्यते। सर्वेषु लिङ्गेषु एव तिङन्तपदं समानम्। अत एव निरुक्तवृत्तौ स्मर्यते- क्रियावाचकमाख्यातं लिङ्गतो न विशिष्यते। त्रीनत्र पुरुषान् विद्यात् कालतस्तु विशिष्यते॥ आख्यातम् अर्थात् क्रियापदं तिङन्तपदं वा। क्रियावाचकमाख्यातम्। भावप्रधानमाख्यातम्20। एतस्मिन् विषये उक्तं भवति। एतच्चतुष्प्रभेदमाख्यातं भवति- कर्तरि, भावे, कर्मणि, कर्मकर्तरि चेति। पचति इति कर्तरि, भूयते, पच्यते इति भावकर्मणोः, पच्यते स्वयमेव इति कर्मकर्तरि।

Keywords