Prachi Prajna (Jun 2022)

कवि-हरेकृष्णमेहेरस्य काव्यकृतिषु अलङ्कार-संयोजना

  • डॉ. सस्मितासाहु

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 15

Abstract

Read online

सामाजिक-जीवने केयूर-कङ्कण-प्रभृतयः अलङ्कारा: यथा मानवशरीरस्य सौन्दर्यं वर्धयन्ति, तथैव अनुप्रासोपमा-रूपक-प्रभृतय: अलङ्कारा: काव्यस्य शब्दार्थयोः सौन्दर्यं चमत्कृतिं च वर्धयन्ति। काव्ये अलङ्काराणां तादृशं महत्त्वं वर्त्तते, यादृशं शरीरे अलङ्काराणां वस्त्रादीनां वा। आधुनिकसंस्कृतसाहित्ये लब्धप्रतिष्ठस्य कवे: हरेकृष्ण-मेहेरस्य संस्कृतकाव्य-कृतिषु विविधानां शब्दालङ्काराणामर्थालङ्काराणां च समावेशो लक्ष्यते। अत्र मुख्यरूपेण उपमा, अनुप्रास:, यमकम्, रूपकम्, समासोक्ति:, व्यतिरेक: चेत्यादीनामलङ्काराणां प्रयोगो विलोक्यते। अस्मिन् शोध-प्रबन्धे कवे: मेहेरस्य काव्यकृतिषु सन्निवेशितानां कतिपयालङ्काराणां विवेचनं कर्त्तुं विहितोऽस्ति प्रयासः।

Keywords