Prachi Prajna (Dec 2021)

किरातार्जुनीयमहाकाव्ये शैक्षिकोपादानानि

  • Harekrushna Das

Journal volume & issue
Vol. VII, no. 13
pp. 118 – 126

Abstract

Read online

बुद्धिः, विवेकः, विचारशक्तिः मानवेषु भवत्येव, परन्तु जीवने कथं कदा वा समस्या आयाति तत् अनुमानं कर्तुं मानवाः सर्वदा सक्षमाः न भवन्ति। तत्रैव मानवस्य सामाजिकोत्तरदायित्वम् एवं शिक्षा तम् समुचितमार्गं प्रदर्शयति। शिक्षायाः यद्यपि विविधस्वरूपं भवति परन्तु सामाजिकजीवने आगतानां समस्यानां समाधानं केवलं तस्य ज्ञानस्य परिसीमा निर्धारयति। अतः मानवः शिक्षायाः शरणं याति। भारते संस्कृतसाहित्यस्य व्यापकता दृश्यते परन्तु तानि तथ्यानि आधुनिकयुगे सामाजिकव्यवहारे च प्रयोक्तुं नैव शक्यते। अतः अत्र महाकविभारविविरचिते किरातार्जुनीयमहाकाव्ये विदितगुरुशिष्ययोः लक्षणमहत्त्वञ्च विद्यालयव्यवस्था एवं एतेषां आधुनिकयुगे आवश्यकता उपयोगिता विषये च चर्चा विहिता। अध्यापकछात्रयोः सम्बन्धः पितापुत्रसम्बन्धसदृशः आसीत् वैदिककाले यत्तु आधुनिकशिक्षाव्यवस्थायां प्रदायक-ग्राहकसम्बन्धसदृशः प्रतीयते। अतः अत्र परिवर्तनं नीत्यादर्शानुगुणं कर्तुं भारतीयप्रचीनशिक्षाव्यवस्थायाः पुनः प्रवेशः अत्यावश्यकः। यश्च प्रत्येकस्य भारतीयनागरिकस्य प्रमुखं कर्तव्यम्।

Keywords