Prachi Prajna (Jun 2019)

वेदोपाङ्गे अद्वैतवेदान्ते सृष्टिः

  • रणजीतकुमारः

Journal volume & issue
Vol. 5, no. VIII
pp. 98 – 104

Abstract

Read online

एकमेवाद्वितीयम् । मनसैवेदमाप्तव्यं नेह नाना अस्ति किञ्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ।। इत्यादीनि वाक्यानि एतदेव अवबोधयन्ति । सत्यपि एवं कुत्रचित् सृष्टिप्रपञ्चस्य संकेता अपि अवाप्यन्ते । तद्यथा – ॐ आत्मा वा इदमेक एवाग्र आसीत् स ईक्षत् लोकान्नु सृजा इति । स इमाँल्लोकानसृजत् । एवमुभयविधश्रुत्याधारेण विवेचनस्य प्रसङ्गोऽयं यत् कतिचनवाक्यैः पारमार्थिकतया एकमेव ब्रह्म निश्चीयते । एवं च ब्रह्मातिरिक्तस्य सर्वस्य प्रपञ्चस्य प्रतिषेधात् अद्वैतवेदान्ते सृष्टेः प्रसङ्ग एव नास्ति इति प्रतीयते । यदि ब्रह्मातिरिक्तम् अन्यस्य वस्तुजातस्य सत्ता स्यात् तदा सृष्टिः सम्भाव्येतापि । एवं सत्यपि संसारे अस्माभिः स्थावरजङ्गमात्मकं जगज्जायमानं प्रत्यक्षम् अनुभूयते । अत्रापि इयं प्रतीतिः आध्यासिकी स्वीक्रियते । ब्रह्मज्ञानोदये प्रपञ्चस्य बाधात् एकमेवाद्वितीयं ब्रह्म अवशिष्यते ।

Keywords