Prachi Prajna (Dec 2019)
प्रयुञ्ज्महे शब्दान् साधून्
Abstract
साधवः शब्दाः संरक्षिताः भवन्तु, असाधवः साधूनां स्थाने न प्रसरन्तु अस्माकं देववाणी च अक्षुण्णा नित्यतया यथापूर्वं राजतां येन परावाग्रूपं शब्दब्रह्म आसाद्य शब्दोपासकः सर्वोऽपि मानवः मोक्षभाक् स्यादिति कृत्वा शाब्दिकं शास्त्रमकार्षुः असंवेद्यानामपि विषयाणां ज्ञातारो महर्षयः। साध्वितरशब्दोत्पत्तिस्तावत् अशक्तानां, स्वाध्यायापरायणानां वाचश्च मालिन्यवतां सकाशात् अभूदिति भर्तृहरेराचार्यस्याभिप्रायः । किञ्च, न च प्रकृतिप्रत्ययविभागासम्भववानेवासाधुरिति अपितु अपेक्षितार्थस्थले तदर्थासम्पूरकोऽपि शब्दोऽसाधुरेवेरिति कश्चन वैयाकरणसमयः। अत एव अश्व इति प्रयोक्तव्ये व्युत्पन्नत्वशक्यतावच्छेदकत्ववान् अस्व इति न साधुः। इत्थमेव च अस्व इति प्रयोक्तव्ये अश्व इति न साधुः। अपभ्रंशानां तु किं कथयेम व्यवायम् आधुनिके अस्मिन् काले साधुषु। ते हि नूनं वारणीया एव। एवञ्च संस्कृतशब्दस्वरूपनाशयित्री सर्वा अपि अव्यवस्था व्यवस्थया कयाचिन्नियम्येति परमावश्यकं संस्कृतभाषाल्पलोकेऽस्मिन् तदर्थं लोके एव श्रूयमाणत्वात् प्रष्टृपिपृच्छिषितत्वाच्च सङ्कलितानि कानिचन शब्दसुमान्यत्र प्रबन्धे तत्साधुत्वपरिशीलनव्यवस्थापूर्वकं ग्रथ्यन्ते सरलया गिरा |