Prachi Prajna (Jun 2022)

पिङ्गलीयच्छन्दःसूत्रे पाणिनिप्रभावः

  • Sayanti Gorai

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 5

Abstract

Read online

यो ह वा अविदितार्षेयच्छन्दोदैवतविनियोगेन ब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स स्थाणुं वर्च्छति गर्तं वा पद्यते प्रमीयते वा पापीयान् भवति यातयामान्यस्य छन्दांसि भवन्ति इति श्रुतिवचनाज्ज्ञायते यत् षड्वेदाङ्गभूतच्छन्दसो वैदिकवाङ्मये कियत्तात्पर्यं विद्यते। तत्र छन्दोवाङ्मये पिङ्गलाचार्यकृतं छन्दःसूत्रं श्रेष्ठस्थानं विधत्ते। वैदिकलौकिकच्छन्दसां सूत्रं ग्रथितं तेनाचार्येण। अत्र ग्रन्थे पदे पद एव पाणिनीयाष्टाध्याय्याः प्रभावः दृग्गोचरीभूयते। कथंकारोऽयं प्रभावः तदेवालोच्यविषयोऽस्य शोधपत्रस्य।

Keywords