Prachi Prajna (Jun 2022)

सवर्णव्यवस्थायां ज्ञापकानामावश्यकता

  • Pallabi Malik

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 11

Abstract

Read online

वर्णेषु परस्परभिन्नत्वेऽपि पाणिनीयव्याकरणे लाघवार्थं तेषां परस्परं सवर्णसंज्ञा विधीयते। तुल्यास्यप्रयत्नं सवर्णम् (अष्टाध्यायी, अ० १/१/९) इति सूत्रे “तुल ऊन्माने” इत्यतः तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् (अ० २/३/७२) इत्यत्र “तुला” इति निर्देशाद् षिद्भिदादिभ्योऽङ् (अ० ३/३/१०४) इत्यनेन भिदादिकल्पनात् निपातनाद्वाङि गुणाभावाद्वा तुलेति। तुलाशब्दात् तुलया सम्मितम् इत्यर्थे नौवयोधर्मविषमूलमूलसीता-तुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु (अ० ४/४/९१) इत्यनेन यत्प्रत्यये तुल्यशब्दः सदृशे रूढः। तस्माद् प्रवीणः कुशलः प्रतिलोमः अनुलोम इत्यादिवत् तुल्यशब्देऽपि अवयवार्थाभावः। तेन तुल्यशब्दः रूढ्यर्थे सदृशपर्यायः, न तु तुलया सम्मितार्थः। तुलया द्रव्यान्तरं परिच्छिन्नवत् तुल्येनापि सादृश्येन परिच्छिन्नत्वात् उभययोः सादृश्यमस्ति। तथापि प्रयत्नस्य तुलया सम्मितत्वमसम्भावात् लौकिकार्थः न गृह्यते। “तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वं सादृश्यम्” - इत्यनेन चन्द्रवन्मुखम् इत्यादौ चन्द्रगतधर्माणां मुखे वृत्तित्वासम्भवात् चन्द्रमुखौ परस्परौ भिन्नौ। परन्तु तयोः आह्लादजनकत्वधर्मवत्त्वात् अर्थतः सादृश्यः प्रतीयते। एवम् अकारादिनां वास्तविकमभेदेऽपि उच्चारणकालादि भेदः अस्ति। परन्तु सवर्णसंज्ञायां वर्णानां कस्मिन्धर्मे सादृश्यमावश्यकम् कस्मिन्नगणनीयम्, सर्वत्रैव तादृशमेव गणनीयं न वा, कैः वर्णाः गृहीताः इत्यस्मिन् विषये पाणिनीयव्याकरणे किमपि पृथग्विधिर्नास्ति। परन्तु सूत्रे व्यवहारेण ज्ञापकेन वा तल्लभ्यते। वर्णानां परस्परं सवर्णनिर्धारणे ज्ञापकाः आवश्यकाः।

Keywords