Prachi Prajna (Jun 2020)
व्याकरणशास्त्रे मांसाहार-पशुबलि-विधान-भ्रान्तिनिवारणम्
Abstract
सर्वशास्त्रावगमाय व्याकरणशास्त्रस्य महत्त्वम् अनितरसाधारणं वरिवर्तीति वेत्त्यखिलं संस्कृतजगत्। सर्वासां विद्यानाम् आसादनं व्याकरणेन सुलभतया एव जायते। तत्रापि सौलभ्येन न्यूने एव काले न्यूनेन च श्रमेण महतो हि विद्याविषयस्य ग्राहकं त्रिमुनिव्याकरणं सुदीर्घात् कालात् एतावत् पर्यन्तम् अनारतं भजते वैशिष्ट्यं लोके। महान्तः अस्माकम् ऋषयस्त्रय एते। अमीषाम् अस्मदृषीणां विलक्षणा तीक्ष्णा दैवी च बुद्धिरासीत् तत्रैव चित्तेषु तेषां महती काचित् करुणा महान् हि कश्चन च अहिंसाभावः अधितिष्ठति स्म। इत्थमेव अन्ये वा ऋषयो भवेयुः शब्दविद्यापारावारीणा वा मुनयः, सर्वेऽपीमे सर्वस्य मानवभूतस्य मानवेतरभूतस्य वा ऐहिकाय पारलौकिकाय च सर्वविधाय श्रेयसे एव तपश्चक्रुः। परन्तु चेतसि खिन्नता का जायते नाम यन्मानवहिताय ऋषिभिस्तज्जीवितमेवादायि तन्मानवः अद्य ऋषिनिर्दिष्टं पन्थानं नान्वगच्छन् विपरीत एव विनाशस्य पथि बम्भ्रम्यमाणो दृश्यते, न केवले विषमपथे सञ्चलनम् अपितु स्वभोगपूर्त्यर्थं ऋषिवचांसि अन्यथा कृत्वा ऋषिभि:प्रायविरुद्धस्य सिद्धान्तस्य प्रमाणीकरणम् अपि स्वार्थिकस्य मानवस्य प्रवृत्तिरिव अस्ति जाता। एतादृशविरुद्धाचरणेषु अन्यतरत्वं भजते मांसाहारसमर्थनं पशुबलिविधानं च। तदिदम् उभयम् अपि हिंसापरमेव इति सुतरां नास्मदृषीणाम् एतदर्थम् अनुज्ञाऽऽज्ञा वा अर्हति भवितुम्। आत्मनो न प्रतिकूलं परेषाम् आचरेमेत्येव ऋषिभिः वयं आदिष्टाः। परन्तु जिह्वालोलस्य मांसाद्यनिष्टभक्षणपरस्य मानवस्य एव प्रवृत्तिं वीक्ष्य तत्र तत्र प्रसङ्गेषु ऋषिभिः तन्मांसभक्षणस्य तत्पशुबल्यादिविधानस्य दृष्टान्तत्वेन उल्लेखः कृतः दृश्यते। एतादृगुल्लेखो व्याकरणस्य त्रिमुनि अपि कृतो वर्तते। तानिमानुल्लेखान् पुरस्कृत्य कतिपये आमिषस्य भक्षकाः आमिषभक्षणं पशुबल्यादिहिंसां च धर्मस्य चक्षुषा पश्यन्ति, यच्च खेदाय अखिलजगतो विनाशाय च। अत एतेषु एव व्याकरणशास्त्रस्य उल्लेखेषु कतिपयान् उल्लेखान् आदाय अत्र लेखे तावत् अर्थगतसङ्गत्यर्थं, मिथ्यात्वभ्रान्तिच्छेदनार्थं याथार्थ्यप्रतिपादनाय च प्रयतिष्यामहे।