Prachi Prajna (Dec 2019)
श्रीअरविन्देन प्रकाशम् आनीता श्रीमद्भगवद्गीता
Abstract
भगवद्गीतायाः विषयः सहस्रेभ्यः वर्षेभ्यः ज्ञानिभिः चर्चितः। तेषु विंशतेः शताब्देः एकः महान् योगी वर्तते श्रीअरविन्दः घोषः। महर्षिणा श्रीअरविन्देन स्वस्य "Essays on the Gita" ("गीतानिबन्धाः") नाम्नि पुस्तके भगवद्गीतायाः अध्यात्मस्य कानिचन महत्त्वपूर्णानि वैशिष्ट्यानि प्रकाशम् आनीतानि। एषः शोधनिबन्धः तानि वैशिष्ट्यानि निवेद्य दर्शयति यत्, एतेषां वैशिष्ट्यानम् आधारेण यदि गीता पठ्येत तर्हि पठित्रे गीतायाः अष्टादशानाम् अपि अध्यायानाम् समग्रं बोधनं भवितुं सौकर्यं भवति। श्री-अरविन्दः निर्दिशति यत्, गीतायाः अध्यात्मं जीवनात् दूरं गन्तुं नास्ति; किन्तु तस्मात् विरुद्धं, ज्ञान-कर्म-भक्तिः इति त्रयाणाम् अपि अङ्गानां सङ्गमं कृत्वा मानुष-जीवनस्य अध्यात्मिक-दिव्य-जीवने परिवर्तनाय अस्ति। सद्यः आधुनिक-काले अपि, भारतदेशे बहवः जनाः भगवद्गीतायाः अध्यात्मं जीवने आनेतुं प्रयतमानाः दृश्यन्ते। मानुष-जीवनस्य विविध-समस्यानां परिहारः प्राचीन-भारतस्य अध्यात्मे लब्धुं शक्यते इति आशा आविश्वे अपि वर्धमाना अस्ति। प्राचीन-भारतस्य अध्यात्मिक-ग्रन्थेषु भगवद्गीता विशेषस्थानं गृह्णाति एव। किन्तु गीतायाः योगसाधना दैनन्दिन-जीवने जीवितुं बहुभिः गीतोपासकैः काठिन्यम् अनुभूयते। श्रीअरविन्देन प्रकाशम् आनीतानि गीता-वैशिष्ट्याणि एतत् काठिन्यं दूरीकर्तुं समर्थाः सन्ति, इति विश्वासेन एषः शोधनिबन्धः अत्र प्रस्तूयते।