Prachi Prajna (Jun 2022)

कृत्यप्रत्ययार्थविमर्शः

  • Dr. Suneli Dei

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 8

Abstract

Read online

महर्षिपाणिनिना पाणिनीयव्याकरणे ३९९६सूत्रैः प्रकृतिप्रत्ययाभ्यां साधुशब्दानामनुशासनं कृतम्। धातुः प्रातिपदिकञ्च प्रकृतिरूपेण गृह्येते। प्रकृतिः सर्वदा आदौ प्रयुज्यते, प्रत्ययः सर्वदा प्रकृतेः अनन्तरं प्रयुज्यते। पाणिनिमतेन पदं द्विविधम्-सुबन्तं तिङन्तञ्च। धातोः तिङ्-प्रत्ययाः प्रयुज्यन्ते, प्रातिपदिकात् सुप्-प्रत्ययाः प्रयुज्यन्ते। कृत्तद्धितसमासाश्च इति सूत्रानुसारं कृत्यप्रत्ययान्तः प्रातिपदिकं भवति। अत एव कृत्यप्रत्ययान्त- प्रातिपदिकात् सुप्-प्रत्ययाः प्रयुज्यन्ते। तस्मात् कृत्यप्रत्ययान्तपदं सुबन्तं भवति। १) तव्यत् २) तव्य ३) अनीयर् ४) केलिमर् ५) यत् ६) क्यप् ७) ण्यत् चेति सप्त कृत्यप्रत्ययाः भवन्ति। तयोरेव कृत्यक्तखलर्थाः इति सूत्रानुसारेण भाववाच्ये कर्मवाच्ये च कृत्यप्रत्ययाः प्रयुक्ताः भवन्ति। प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च इति सूत्रेण प्रैष-अतिसर्ग-प्राप्तकालेषु इत्येतेष्वर्थेषु लिङ्-प्रत्ययाः कृत्यप्रत्ययाः अपि प्रयुज्यन्ते। अर्हतीत्यर्ह, तद्योग्यः। अर्हे कृत्यतृचश्च इति सूत्रेण अर्हे कर्त्तरि वाच्ये धातोः लिङ्-प्रत्ययाः कृत्यप्रत्ययाश्च भवन्ति। कृत्याश्च इति सूत्रानुसारं आवश्यकार्थे आधर्मण्यार्थे च धातोः कृत्यप्रत्ययाः भवन्ति। शकि लिङ् च इति सूत्रानुसारं शक्यर्थगम्यमानाद् धातोः अपि लिङ्-प्रत्ययाः कृत्यप्रत्ययाश्च स्युः। प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्त्तिके अर्थे विद्यमानाद् धातोः लिङ्-प्रत्ययाः कृत्यप्रत्ययाश्च स्युः। कृत्यल्युटो बहुलम् इति सूत्रेण कृत्यप्रत्ययाः ल्युट्-प्रत्ययाश्च बहुलेषु अर्थेषु प्रयुक्ताः भवन्ति।

Keywords