Prachi Prajna (Jun 2021)
काव्यालंकारसूत्रवृत्तिदृष्ट्या कतिपयसन्दिग्धशब्दानां साधुत्वासाधुत्वविवेचनम्
Abstract
भाषायां तावत् साधुशब्दज्ञानं सदापेक्षितम्। व्याकरणशास्त्रात्तु तत् ज्ञानं सम्यकतया परिप्राप्तम्। सुनिश्चितशब्दचयनैरेव काव्यशरीरस्य विनिर्मानं भवति। यथोक्तं भामहेन- ‘शब्दार्थौ सहितौ काव्यम्’ (काव्यालंकारः१/१६) इति। अतएव काव्यनिर्माणाय साधुशब्दज्ञानं तु अपरिहार्यम्। काव्ये कस्तावत् शब्दः प्रयोक्तव्यः कः वा परिहरणीय इत्येवं संशयः सदा वर्तते। कारणादस्मात् वामनाचार्येण काव्यालंकारसूत्रवृत्तौ पञ्चमेऽधिकरणे शब्दशुद्धिरपि आलोचना कृता। तत्र सन्दिग्धशब्दानां साधुत्वासाधुत्वं संक्षेपेन प्रतिपादितम्। नवीनं कविगणं प्रति एवमालोचना तावत् कामधेनुतुल्या। तथापि व्याकरणदृष्ट्येयमालोचना शुद्धाऽस्ति न वेति संशयः सततमुपजायते। विश्लेषणशैलीमाश्रित्य एवं संशयनिवारणेऽत्र प्रयत्नः कृतः।