Prachi Prajna (Dec 2022)

रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च

  • हरेकृष्णदासः

Journal volume & issue
Vol. VIII, no. 15
pp. 1 – 4

Abstract

Read online

नीयन्ते संलभ्यन्ते उपायादय ऐहिकामुष्मिकार्था वास्यामनया नीतिः इति कथ्यते। नीतेः अर्थः नियमः। नयस्य विनयो मूलं विनयः शास्त्रनिश्चयः। इन्द्रियजयस्तद्युक्तशास्त्रमिच्छति। इन्द्रियादि संयमपूर्वकमुचितानुचितयोः भेदज्ञानं एवं सन्मार्गस्य अन्वेषणेन सह विनयमार्गे गमनं नीतिः इति उच्यते। नीतेः ज्ञानसम्पादनार्थं सहायकशास्त्रं नीतिशास्त्रमिति कथ्यते। नियमस्य परिपालनेन मानवलक्ष्यपरिपूर्तये सरलतां याति इति नास्ति संशयः। संस्कृतसाहित्यस्य परमविद्वान् दीपशिखामहाकविकालिदासः स्वस्य रघुवंशमहाकाव्ये समाजोचितानां नियमानां चर्चां कृतवान् काव्यचातुरीच्छलेन। काव्यपठनेन न तु केवलं काव्यरसिकसहृदयानां चित्तविनोदनं भवति अपितु सामाजिकनीतिनियमानां परिपालनाय यथोचितं मार्गदर्शनञ्च प्राप्नुवन्ति।

Keywords