Prachi Prajna (Jun 2022)

रसवादाः - रसस्वरूपनिरूपणम्

  • Dr. V. Suryaprabha

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 6

Abstract

Read online

रससम्प्रदायस्य प्रप्रथमप्रवर्तकः भरतः इति सर्वेषामालङ्कारिकाणामभिप्रायः। भरतस्य “नाट्यशास्त्रम्” इति ग्रन्थः सुप्रसिद्धः, सर्वेषामालङ्कारिकाणाम् अलङ्कारशास्त्रविषये आधारभूतः ग्रन्थः इति च सर्वेषां विदुषाम् अभिप्रायः। रसस्वरूपनिरूपणविषये भरतमुनिः येषां सिद्धान्तानां प्रतिपापादनं कृतवान्, प्रायशः तेषामेव सिद्धान्तानां प्रतिपादनं एवं व्याख्यानञ्च तदितरैः आचार्यैः कृतम्। भरतमुनिना प्रतिपादितं यत् – “न हि रसादृते कश्चिदर्थः प्रवर्तते” । इति। एवं भरतः नाट्यशास्त्रे रससूत्रमेवं प्रस्तुतवान् – “विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः” इति। वस्तुतः भरतकृतनाट्यशास्त्रस्य रससूत्रमतिसरलं सुस्पष्टञ्च वर्तते। परन्तु इदं रससूत्रं व्याख्याकाराणां अनेकव्याख्यभिः अतिक्लिष्टं सञ्जातम्। रससूत्रस्य विभावानुभावव्यभिचारिपदानां व्याख्याने न काऽपि विमतिः। परं संयोगनिष्पत्तिपदयोः व्याख्याने एव विद्वद्भिः मतान्तराणि प्रस्थापितानि। तानि मतानि काव्यप्रकाशगतरसस्वरूपनिरूपणमिति मम पत्रे प्रस्तोतुमिच्छामि।

Keywords