Prachi Prajna (Jun 2022)

संस्कृतरूपकेषु प्रतिफलिता राजनीतेः अवधारणा

  • Vaskar Chatterjee

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 7

Abstract

Read online

कस्यचित् राष्ट्रस्य सामग्रिकस्थितिम् अधिगन्तुम् आदौ तस्य राजनैतिकं वातावरणम् अन्वेषणीयं भवति। यत्र प्रशासकः दुर्बलः, राष्ट्रनीतिश्च दुर्बला तत्र न कथञ्चिदपि उन्नतिः भवेत्। इयञ्च नीतिः प्राचीनकालादेव युगोपयोगिपरिवर्तनद्वारेण आधुनिककाले समायाति। पुरातनेभ्यः एव शिक्षां स्वीकुर्वन्ति नवीनाः। अतः अद्यतनीयराष्ट्रनीतेः समुन्नयनाय प्रयोजनं भवति प्राचीनायाः राष्ट्रनीतेः तद्देशीयनृपादीनाञ्च चरितानुशीलनम्। कथं तत् ज्ञातुं प्रभवामः इति चेत् प्राचीनकाले विरचिताः ग्रन्थाः एव तत्र सहायकाः भवन्ति। वेदादारभ्य आधुनिकसाहित्यं यावत् सर्वत्रैव वर्णितमस्ति नृपाणां चारित्रिकं वैशिष्ट्यं, राज्यपरिचालनपद्धतिः, तस्याः साफल्यं वैफल्यादिकञ्च। अत्र प्रबन्धेऽस्मन् मया केवलं रूपकेषु आलोचिता राष्ट्रनीतिः वर्णिता अस्ति। महाकवयः स्वस्वकाव्येषु सुनिपुनतया एतत् सर्वम् आलोचितवन्तः।

Keywords