Prachi Prajna (Dec 2019)

छन्दसि बहुलार्थस्वरूपविनिश्चय:

  • ACHINTYA KUMAR PAL

Journal volume & issue
Vol. 5, no. IX
pp. 150 – 165

Abstract

Read online

शोधप्रबन्धेऽस्मिन् अष्टाध्याय्यामुल्लिखितानां बहुलार्थप्रतिपादकानां छन्दोविषयकसूत्राणां सोदाहरणमालोचनं विहितं मया । वेदे व्यवहृतानां शब्दानां प्रायेण महर्षिणा पाणिनिना नियमबद्धरूपेण प्रकाशयितुं महान् प्रयासः विहितः, स बहुलशब्देन तेषां चतुर्विधार्थान् स्वीकृतवान् इति मन्ये। एवंविधानि द्वादशसंख्यकानि सूत्राणि प्राप्यन्ते । तत्र केषुचिदेव सूत्रेषु समानरूपेण एते चतुर्विधाः अर्थाः प्रवर्तन्ते । परन्तु अधिकतया तु निषेधमुखेन विधिः,विधिमुखेन निषेधः तथा वैकल्पिकतया निषेधः विधिः इत्यादिबहुविधानां नियमानां प्रकाशकानि सूत्राणि एतानि । एतेषु सूत्रेषु कस्यापि एकस्य धर्मस्य प्राधान्यं दृश्यते गौणरूपेण अन्येषामपि विधानं प्राप्यते येन एतेषां सूत्राणां स्वरूपनिर्णयस्तथा षड्विधेषु सूत्रेषु वर्गीकरणं तु कष्टसाध्यम्। तथापि एतैः सूत्रैः विधीयमानानां कार्याणां वर्गीकरणं तथा तेषां सूत्राणां एव निर्दिष्टरूपेण विभागस्य प्रयासः कृत: ।प्रबन्धस्यास्य लक्ष्यद्वयं भागद्वयं वा वर्तते तत्र प्रथमतः सूत्राणां सविस्तरेणालोचनपूर्वकः प्रतिसूत्रं बहुलग्रहणार्थविचारः इति तथा द्वितीयतः बहुलार्थकसूत्राणां यथार्थस्वरूपनिर्णयश्चेति ।