Prachi Prajna (Jun 2021)
श्रीमद्भगवद्गीतायां योगस्वरूपम्
Abstract
परब्रह्मणः योगेश्वरस्य श्रीकृष्णस्य मुखपद्मात् निःसृतः महाभारतस्यांशोऽस्ति श्रीमद्भगवद्गीता। अस्मिन्ग्रन्थेऽष्टादशाध्यायाः विद्यन्ते। श्रीमद्भगवद्गीतायाः प्रत्येकेऽस्मिनध्याये योगस्य पृथक्-पृथग्रूपाणि प्रतिपादितानि समुपलभ्यन्ते। तानि चेत्थं प्रथमोऽध्याये विषादयोगः, द्वितीये साङ्ख्ययोगः, तृतीये कर्मयोगः, चतुर्थे ज्ञानयोगः, पञ्चमे सन्न्यासयोगः, षष्ठे ध्यानयोगः, सप्तमे ज्ञानविज्ञानयोगः, अष्टमे अक्षरब्रह्मयोगः, नवमे राजयोगः, दशमे विभूतियोगः, एकादशे विश्वरूपदर्शनयोगः, द्वादशे भक्तियोगः, त्रयोदशे क्षेत्रक्षेत्रज्ञविभागयोगः, चतुर्दशे गुणत्रयविभागयोगः, पञ्चदशे पुरुषोत्तमयोगः, षोडशे देवासुरसम्पद्विभागयोगः, सप्तदशे श्रद्धात्रयविभागयोगः, अष्टादशे च मोक्षयोगः। आत्मा-परमात्मनः मिलनरूपयोगः गीतायाः प्रधानप्रतिपाद्यविषयः। तस्मात्करणात् अस्य ग्रन्थस्य प्रत्येकेऽस्मिन् अध्याये बहुभावेन योगतत्त्वानि प्रतिपादितानि सन्ति। यथा योगस्य स्वरूपः, तस्य साधनविधिः, ताभ्यां सहयोगेन फलानि च समुपलभ्यन्ते। सम्पूर्णा गीता ज्ञान-कर्म-भक्तियोगविभागेन त्रिधा विभज्यते। एभिः सह राजयोगस्य विश्लेषणमपि प्राप्यते। अस्मिन्ग्रन्थे मनसः अस्थिरतायाः दूरीकरणार्थमभ्यास-वैराग्य-सद्गुणानां सम्पादनं तथा च प्राणायामस्य बहुविधविवेचनं व्यासेन कृतमस्ति। अत्र प्रतिपादिताः योगाभ्यासस्य विषयः पातञ्जलयोगस्य पुर्वरूपमिति मन्यन्ते विद्वांसः। ध्यानः कया रीत्या करणीय इति विषये साधकाय अयमादेशः प्रदीयते यत् साधकः ग्रीवां शिरसं सरलं कृत्वा नासाग्रे दृष्टिं स्थापयित्वा ध्यानं कुर्यादिति। अस्मादेव कारणात् श्रीमद्भगवद्गीता एकं योगशास्त्रमिति वक्तुं शक्यते। सम्प्रति अध्यायानुसारं योगस्य स्वरूपं पश्यामः।