Prachi Prajna (Dec 2021)

अद्वैतवेदान्ते पञ्चमहासंज्ञाविमर्शः

  • देवसुजन-मुखार्जी

Journal volume & issue
Vol. VII, no. 13
pp. 60 – 73

Abstract

Read online

भारतीयदर्शनेषु वेदान्तदर्शनस्य स्थानम् अतीव गुरुत्त्वपूर्णमास्ते। वेदान्तदर्शने हि भारतीयाध्यात्म-शास्त्रस्य चरमो विकासो लक्ष्यते। वेदान्तदर्शनम् उत्तरमीमांसा वेति मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति। वेदान्तो नाम उपनिषदिति। वेदस्यान्तः सिद्धान्तो वेति विशिष्टार्थेऽस्य प्रयोगः उपनिषदि दृश्यते। वेदस्य रहस्यात्मकेन सिद्धान्तप्रतिपादकत्वेनोपनिषदि वेदान्तशब्दप्रयोगः समुपलभ्यते। पश्चादुपनिषत्सु प्रतीयमान-विरोधपरिहाराय तथ्यानामेकवाक्यतायै च भगवता व्यासेन विरचितं ब्रह्मसूत्रमेवोपनिषन्मूलकं वेदान्तसूत्रं नाम्ना प्रसिद्धम्। उपनिषदां सारो हि श्रीमद्भगवद्गीतेति गीयते। उपनिषद् बह्मसूत्रं गीता चेति त्रयो ग्रन्थाश्च प्रस्थानत्रयमित्यभिधयाभिधीयते। उपनिषदां प्रतिपाद्यं तत्त्वजातं वेदान्तदिशा विविधप्रकारैः समालोचितम्। अतो वेदान्तस्य पञ्च सम्प्रदायाः विविदिरे – ● शंकराचार्यस्य अदैतवेदान्तः ● रामानुजस्य विशिष्टाद्वैतवादः ● निम्बार्कस्य द्वैताद्वैतवादः ● मध्वाचार्यस्य द्वैतवादः ● वल्लभाचार्यस्य शुद्धाद्वैतवादश्चेति। उपनिषत्सु आत्मपरमात्मनोर्विषये जिज्ञासा समाम्नायते। अतः उपनिषदामध्ययनेन आत्मदर्शनानुभवं प्राप्तुं शक्यते। किन्तु वेदान्ते उक्तविषयान् सम्यक्तया ज्ञातुं साधारणाः मानवाः न प्रभवन्ति। अतः श्रीमतः शंकराचार्यस्य अद्वैतवेदान्तदर्शनस्य प्रादुर्भावः। वेदान्ते प्रस्तुतानि आत्मतत्त्वानि सामान्याः जनाः यथा ज्ञातुं शक्नुवन्ति तथा श्रीशंकरः सरलतया तदेव तत्त्वजातं सरलदिशा उपस्थापितवान्। अद्वैतवेदान्तः स्वतन्त्रतया मार्मिकतया मौलिकतया च एकत्वरूपदेशीयत्वेन ख्य़ातिम् अगात्। आत्मा ब्रह्म च न तु भिन्ने किन्तु एकमेव अद्वितीयञ्चेति। वेदेषु ‘तत्त्वमसि’ इति महावाक्यार्थः सप्रमाणं युक्त्याम्नातः। वेदान्तशास्त्रस्य प्राथमिकाध्ययनार्थं वेदान्तशास्त्रोक्तानां परिभाषाणां सम्यग् ज्ञानमावश्यकम्। परिभाषाणां सामान्यज्ञानाद् ऋते वेदान्तशास्त्रोक्तानां तत्त्वानामवगमनं दुष्करं स्यात्। अतो वेदान्ततत्त्व-ज्ञानेच्छूनां पाठकानां शोधकर्त्तॄणां सुखबोधाय स्वबुद्धिपरिष्काराय च पञ्चपरिभाषाणां सामान्यपरिचयः प्रस्तूयते। वेदान्तदर्शनस्य पञ्चपरिभाषाः समाश्रित्य “अद्वैतवेदान्ते पञ्चमहासंज्ञाविमर्शः” इति लघुप्रबन्धो मयका प्रस्तुतः। इह शोधपत्रे यथाक्रमं अद्वैतवेदान्तानुसारं ब्रह्म, अमृतम्, अध्यासः, माया तथा मोक्षश्चेत्येते विषयाः समुपस्थाप्यन्ते।

Keywords