Prachi Prajna (Dec 2019)
श्रीदेवीमाहात्म्ये काव्यतत्त्वविमर्शः
Abstract
पुराणानि कथोपकथाभिः संयुतानि सुहृत्सम्मितोपदेशानीति परिगण्यन्ते । परम् एष्वपि कानिचन काव्यतत्त्वसमलङ्कृतानि पुराणकोटौ काव्यकोटौ च परिगणनार्हाणि भवन्ति । तेषु अन्यतमं विद्यते इदं मार्कण्डेयपुराणान्तर्गतं श्रीदेवीमाहात्म्यम् । काव्यतत्त्वभूयिष्ठमिदं श्रीदेवीमाहात्म्यं काव्यरसिकानाम् आह्लादकरं सत् काव्यकोटावपि परिगणनार्हं पुराणम् । अतः लेखेऽस्मिन् अस्य देवीमाहात्म्यस्य काव्यतत्त्वदृष्ट्या निरूपणं कृतं विद्यते ।