Prachi Prajna (Jun 2021)

मनोनिर्वहणविषये उपरतेः आवश्यकता

  • DR. S. NARASIMHAN

Journal volume & issue
Vol. VII, no. 12
pp. 168 – 172

Abstract

Read online

कर्ममयं जगत् सृष्टि-स्थिति-लय-उदयास्तमन -पुण्यपाप-लाभ-नष्ट-जननमरणाद्यनेकविध -कर्मभरितोऽयं प्रपञ्चः । आसृष्टेः कर्मणः एतादृशी गतिः बलिष्ठा निरन्तरं चलन्ती एव अस्ति प्रपञ्चेऽस्मिन्। न केवलं लौकिककर्मनिरताः सामान्याः मानवाः, परं ज्ञानमार्गरताः तत्वविदः योगिनः सिद्धा अपि कथञ्चित्लोकक्षेमार्थं क्रियान्विता एव भवन्ति। अत एव “नैव किञ्चित्करोमीति युक्तो मन्ये ततत्त्ववित्“1 इति योगाचार्येण श्रीकृष्णेनैव सुष्ठु निर्धारितं गीतायां यत्तत्त्वविदः अपि कर्माचरणं विहाय मौनं स्थातुं नार्हन्तीति। तर्हि सामान्यः जनस्तावत् प्रपञ्च्चेऽस्मिन् कर्माचरणं विहाय निष्क्रियः कदापि भवितुं वा नार्हति।