Prachi Prajna (Jun 2020)

उत्तरमीमांसायामद्वैतवेदान्तदर्शने पदार्थतत्त्वविमर्शः

  • श्यामसुन्दरसाधुखाँ

Journal volume & issue
Vol. VI, no. 10
pp. 65 – 70

Abstract

Read online

‘मान्’ धातोः अनन्तरं ‘सन्’ , ‘आ’ प्रत्यययोगेन मीमांसा शब्दः निष्पद्यते । ‘मान्’ धातोः अर्थः विचारः, सन् प्रत्ययस्यार्थ इच्छाप्रकाशनम्, अतः मीमांसा शब्दस्य अर्थः वेदार्थविचारमूलक-शास्त्रम्। छान्दग्योपनिषदि विचारार्थे मीमांसाशब्दस्य प्रयोगः दृश्यते। अत्र वेदस्य कर्मकाण्डस्य विचारः वर्तते, अर्थात् मीमांसा वेदस्य गूढार्थस्य निर्णायकपद्धतिविशेषः। कर्मकाण्डात्मकं मीमांसादर्शनं ‘पूर्वमीमांसा’ एवञ्च ज्ञानकाण्डात्मकं वेदान्तदर्शनम् ‘उत्तरमीमांसा’ इति कथ्यते। महर्षिवेदव्यासशिष्यः जैमिनिः मीमांसादर्शनस्य प्रवर्तकः। तस्मात् कारणात् मीमांसादर्शनं जैमिनिदर्शनमिति कथ्यते। जैमिनिना कृतः मीमांसासूत्रम् अस्य दर्शनस्य भित्तिः। अयं ग्रन्थः द्वादशाध्यायात्मकम् वर्तते। अत्र 2744 सूत्राणि विद्यन्ते। ग्रन्थोऽयं आनुमानिकं द्विशतम् (200) ईषवीये विरचितः। मीमांसादर्शने षट् प्रमाणानि स्वीक्रीयन्ते। तद्यथा प्रत्यक्षं अनुमानम् उपमानम् शब्दः अर्थापत्तिः अनुपलब्धिश्च। वेदस्यान्तिमो भागो वेदान्तः इति कथ्यते। उपनिषत्तु वेदस्यान्तिमो भागः। वेदस्य विभिन्नशाखासु उपनिषदो बहुलतया परिदृश्यन्ते। तासु विभिन्नाः सिद्धान्ताश्च दृश्यन्ते। उपनिषत्सु स्थलविशेषे विरोधभावः दृश्यते। तद्विरोधभावस्य समाधानार्थं बादरायणेन ब्रह्मसूत्रं विरचितम्। वेदान्तदर्शनस्य मूलभूतग्रन्थः ‘ब्रह्मसूत्रम्’। महर्षिः वेदव्यासरचितः ब्रह्मसूत्रस्योपरि विविधभाष्यभेदैः विभिन्नानि वेदान्तदर्शनानि समुद्भूतानि। तेषु शंकराचार्चकृतं शारीरकभाष्यम् अधिकसमादृतम्। तेन प्रचारितः अद्वैतमार्ग एव वेदान्तदर्शन रूपेण वर्तमाने प्रचलितः भवति। वस्तुतः वेदान्तदर्शने पदार्थद्वयं स्वीक्रियते। तद्यथा ब्रह्म माया च।

Keywords