Prachi Prajna (Jun 2022)

वैयाकरणसम्प्रदायान्तरेषु पारिभाषिकशब्दविवेचनम्

  • ड. प्रदीपकुमारो महापात्रः

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 9

Abstract

Read online

वेदानां यथार्थरूपेणार्थावबोधनाय तत्सराद्यवगमनार्थं पुनस्तत्विनियोगविषये ज्ञानलाभार्थाय च महत्स्थानं विद्यते वेदाङ्गानामेव। वेदमन्त्राणां सम्पूर्णभावेन संरक्षणार्थं वेदाङ्गानां ज्ञानं त्वावश्यमिति। यद्यपि नामकरणं तु ‘वैयाकरणसम्प्रदायान्तरेषु’ इति तथाप्यत्र तु हरिनामामृतव्याकरणप्रयुक्तानां कतिपयानां पारिभाषिकशब्दानां चालोचनं क्रियते। एतेन सह कुत्रचित् इतरव्याकरण-मतमपि चालोच्यते। प्रधानतया पाणिनिकृताया अष्टाध्याय्याः उपलब्मानैः पारिभाषिकशब्दैः सह हरिनामामृतव्याकरणोपलब्धानां पारिभाषिकशब्दानां विवेचनम् एव मुख्यस्तावत् विषयः। पाणिनीये वर्तमानकालबोधार्थं ‘वर्तमाने लट्’ (3.2.123) इति सूत्रं प्राप्यते। परन्तु इरिनामामृतव्याकरणे प्राप्यते ‘अच्युतः’ इति। अतः खलु सूत्रं प्राप्यते ‘तत्र प्रायो वर्तमानकाले तिवादयोऽष्टादश अच्युत नामानः’ (3.3) इति। अर्थात् वर्तमानकाले तिवादीनामष्टादशानामर्थात् परस्मैपदी-नवानां तथा चात्मनेपदी-लट्-ल-कारान्तानां नवानाञ्चाच्युत इति संज्ञा भवति। अच्युतो नाम भगवान् विष्णु एव। पुनश्च कातन्त्रे प्राप्यते ‘वर्तामाना’ (3.1.24) इति। प्रकारेणानेनाष्टाध्याय्यां लुट्, लुङ्, लृट् एतेषां क्रमेणैव ‘वालकल्की तादि’, ‘भूतेश दिवादि’, ‘कल्कि स्यत्यादि’ इत्येतानि नामानि प्राप्यन्ते। मयका इह प्रबन्धे ‘वैयाकरणसम्प्रदायान्तरेषु पारिभाषिकशब्दविवेचनम्’ इति विषये हरिनामामृतव्याकरणप्रयुक्तनां तथा च पाणिनिप्रयुक्तानां पारिभाषिकशब्दानां विवेचनम् इति विषयमाधारीकृत्य विस्तरेण पर्यालोचयिष्यते।

Keywords