Prachi Prajna (Dec 2022)

महाभारते योगस्वरूपम्

  • डाँ गोबिन्ददासः

Journal volume & issue
Vol. VIII, no. 15
pp. 1 – 5

Abstract

Read online

भारतवर्षस्य सर्वस्वं तस्य दर्शनशास्त्रम्। तत्रापि योगदर्शनस्य महत्त्वमप्रतिमम्। योगदर्शनप्रतिपिपादयिषितस्य योगस्य महिमा महर्षिव्यासदेवविरचिते महाभारते सगौरवमभ्युपगतः। भगवता व्यासेन शुकदेवं प्रति यथा योगोपदेशः प्रदत्तः तस्य सम्यक् वर्णनं महाभारतस्य शान्तिपर्वणः मोक्षपर्वण्युपलभ्यते। शान्तिपर्वणः षोडशाधिकत्रिशततमोऽध्याये दृश्यते यत्परब्रह्मणः प्राप्तये महर्षिणा याज्ञवल्केन जनकाय योगसाधनोपदेशः कृतः। तन्मते इह संसारे साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलञ्च नापरं किमप्यस्ति। अनयोः सांख्ययोगयोः एकमेव लक्ष्यम्। तद्यथा जन्ममृत्युचक्रादमृतपदप्राप्तेः निवृत्तिश्च इति। विपुलकायेऽस्मिन्ग्रन्थे ब्रह्मतत्त्वलाभाय योगमार्गस्योपदेशः दरीदृश्यते। तेन सह समाधिनिष्ठस्य योगयुक्तपुरुषस्य लक्षणान्यति निरूपितानि। तत्रैव योगाङ्गाः, अष्टसिद्धयः, व्रतोपवासः, क्षमाशौचादीनाञ्च धार्मिककर्त्तव्यानां सम्पादनेन सह अहिंसायाः पालनस्य निर्दिशोऽपि वर्तते।

Keywords