Prachi Prajna (Jun 2022)

कवयित्र्याः क्षमारावस्य सत्याग्रहगीतासमीक्षणम्

  • Mithu Biswas

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 5

Abstract

Read online

अर्वाचीनसंस्कृतवाङ्मये कवयित्री क्षमारावः स्वकारयितृप्रतिभया बहूनि काव्यादीनि विरचितवती। तस्याः काव्येषु स्वाधीनतान्दोलनस्य प्राक्कालीनावस्था समभिद्योतिता। विशेषेण क्षमा महात्मगान्धिना सह संयुक्ता आसीत्। श्रीमद्भगवद्गीतायाः आधुनिककालीना गीता अनया प्रस्तुता। सा गीता सत्याग्रहगीतेति परिचीयते। महात्मगान्धिनः अनुप्रेरणया तया सत्याग्रहगीता इत्याख्यात्मकं महाकाव्यं व्यरचि। अनुष्टुप्छन्दसि रचितमिदं महाकाव्यं श्रीमद्भगवद्गीतावदष्टादशाध्यायैर्विभक्तः। अस्मिन् महाकाव्ये ६५९ संख्यात्मकैः श्लोकैः गान्धिनः सत्याग्रहान्दोलनस्य वर्णना कृतास्ति। ऐतिहासिकराजनैतिकसन्दर्भमाश्रित्यैव इदमुच्चकोटिकं महाकाव्यम्। तत्र सत्याग्रहगीतायाः एकस्मिन् पक्षे क्षमा गीताशैल्यां गान्धिसंवादस्य सन्देशं व्याख्याति, अन्यस्मिन् पक्षे कालिदासशैलीमप्यनुकरोति। कल्हणस्य राजतरङ्गिणीति ऐतिहासिको ग्रन्थ इव “सत्याग्रतगीता” इत्यस्य कविः समसामयिककालस्य वृत्तं विवृणोति। अनवद्यशैल्या।

Keywords