Prachi Prajna (Dec 2021)

पाणिनिमतेऽव्ययपदविमर्शः

  • Prakash Tiwari

Journal volume & issue
Vol. VII, no. 13
pp. 180 – 189

Abstract

Read online

त्रिषु लिङ्गेषु समानरूपवतां सर्वासु विभक्तिषु सर्वेषु वचनेषु च समानरूपवताञ्चाव्ययपदानां संस्कृतवाङ्मये महत्त्वपूर्णं स्थानमस्ति। अव्ययपदानि विभिन्नशास्त्रेषु शब्दसङ्ग्राहककोशेषु च प्राप्यन्ते। एतैर्भाषायां सारल्यं सरसताकर्षकता–मनोरञ्जकतारुचिवर्धकताश्च प्राप्यन्ते। यैर्विना भाषासु सजीवता नाप्यते। अतः प्रत्येकभाषार्थम् अव्ययशब्दानामतीव महत्त्वं विदृश्यते। वाक्यरचनायाञ्चाव्ययपदानां महदवदानं दृग्गोचरीभवति। अव्ययं नाम किम्? अव्ययानां कति भेदाः? ते चाव्ययाः कति संख्यान्विताः? तेषामर्थवैविध्यञ्च कीदृशमिति स्थले स्थले प्रकीर्णमेव विवेचनमुपलभ्यते। आचार्यपाणिनिमते सम्पूर्णः पदराशिः सुबन्तरूपेण तिङन्तरूपेण च द्विधा विभक्तो दृश्यते। अव्ययशब्दा अपि सुबन्तत्वेनाभिमताः। तेषामवान्तरपदविभागस्तु चतुर्धैव दृश्यते– निपातरूपेण, उपसर्गरूपेण, गतिरूपेण कर्मप्रवचनीयरूपेण च। साधुशब्दव्युत्पादनं पाणिनीयव्याकरणस्य मुख्यं प्रयोजनमस्ति। तत्र शब्दव्युत्पादनक्रमे प्रकृति–प्रत्ययविभागेन शब्दसाधुत्वस्य वर्णनं पाणिनिना बहुशो विहितम्। तेषु शब्देषु कतिपयशब्दाः प्रकृति–प्रत्ययरहिताः सन्तोऽव्युत्पन्ना दृश्यन्ते। ते एव शब्दा अव्ययपदेन व्यवह्रियन्ते। अनुसन्धानेऽत्र पाणिनिमतेऽव्ययपदविमर्शः क्रियते।