Prachi Prajna (Dec 2022)
शौनकशिक्षायां संस्कृतवर्णविचारः
Abstract
वेदभाष्यकारः सायणाचार्यः शिक्षाशास्त्रस्य व्याख्यां कृत्वा कथयति - स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा। अर्थात्, यत्र अकारककारादिवर्णानां, उदात्तादिस्वराणां, ह्रस्वदीर्घादिमात्राणां, स्थानप्रयत्नादिवलानां, माधुर्यादिगुणानां, गीत्यादिदोषाणां, वर्णागमलोपादिसन्तानानाञ्च वर्णना विद्यते, शिक्षा इति कथ्यते। मुख्यतः शिक्षाशास्त्रे वेदमन्त्राणां स्वरवर्णादीना-मुच्चारणविधिः शिक्ष्यते। प्रतिसंहितं शिक्षाग्रन्थोऽपेक्ष्यते। किन्तु सम्प्रति त्रिंशत्संख्याकाः शिक्षाग्रन्थाः लभ्यन्ते। तेषु शिक्षाग्रन्थेषु पाणिनीयशिक्षा, याज्ञवल्क्यशिक्षा, वाशिष्ठीशिक्षा, कात्यायनीशिक्षा, पाराशरीशिक्षा, माण्डव्यशिक्षा, माध्यन्दिनीशिक्षा, वर्णरत्नप्रदीपिकाशिक्षा, केशवीशिक्षा, नारदीयशिक्षा, माण्डुकीशिक्षा, मल्लशर्मशिक्षा, स्वराङ्कुशिक्षा, षोडशश्लोकीशिक्षा, अवसाननिर्णयशिक्षा, स्वरभक्तिलक्षणशिक्षा, पारतिशाख्यप्रदीपशिक्षा, क्रमसन्धानशिक्षा, गलदृग्शिक्षा, मनःस्वारशिक्षा प्रभुतयः प्रमुखाः भवन्ति। एतेषु सर्वेषु शिक्षाग्रन्थेषु शौनकशिक्षा एकं विशिष्टस्थानमधिकरोति।