Prachi Prajna (Dec 2022)
संस्कृतवाङ्मये गणितविज्ञानस्य प्रभावः
Abstract
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भूवा। आदौ वेदमयी दिव्या यतः सर्वा प्रवृत्तमः॥ भारते वैदिकज्ञानविज्ञान-धर्माणाञ्च उत्पत्तिः वेदतः भवति। अतोच्यते - वेदोऽखिलो धर्ममूलम् (मनु-2/6)। सम्पूर्णे जगति ज्ञानविज्ञानस्य परम्परा अत्यन्तं प्राचीनं गम्भीरं च।अस्य कोऽपि निर्दिष्टं क्षेत्रं नास्ति।प्राचीन परम्परायाः अध्ययनं अध्यापनं क्रमविच्छेदं हेतु नूतनं जिज्ञासुनां कृते तत् अववोधनाय क्लिष्टं भवति।परन्तु सम्प्रति अपि वहुषु जिज्ञासु जनाः भारतीय वैदिकपरम्परायां यत् मूलभूत तत्वं वर्तते तस्य ज्ञानार्थनाय व्याकुलं भवति।अतः एतादृशं विषये साम्प्रतिक समाजस्य सुलभतां आवस्यकतां च मुपलक्ष्य गंभिरचिन्तनं अध्ययनं नितान्तं आवस्यकं वर्तते। वैदिककालात् आरम्भ कृत्वा इदानीं यावत् गणितशास्त्रस्य अवदानं महत्वपूर्णं अस्ति। कथ्यते यत् गणितशास्त्रं विना यत्किञ्चिद् अपि ज्ञातुम् न शक्यते। गणितशब्दस्य परिभाषा - “गण्यते संख्ययते तद्गणितम् तत्प्रतिपादकत्वेन तत्संज्ञा शास्त्रम् उच्यते।‘’ विश्ववाङ्मये प्राचीनतमः निधि वेदः। मानवधर्मम् तथा सर्व विद्यायाः आदिम स्त्रोतः वेदः। साहित्यिक शास्त्रेषु वेदस्य प्राधन्यतावर्तते। संस्कृत वैदिकवाङमये गणितशास्त्रस्य उत्पत्तिः वेदतः भवति। वैदिककाले महर्षिनारदः ऋक्-यजुः-साम-अथर्व चतुः वेदः इतिहासः, पुराणं, व्याकरणम् आदि शास्त्रं अपि च पितृविद्याः ऱाशिविद्याः (Mathematics) देवविद्याः, निधिविद्याः (Mining, Engeering), तर्कशास्त्रं (Logic), ब्रह्मविद्यां (Spiritual Science) भुतविद्यां, क्षत्रविद्यां (Military Science) नक्षत्र विद्यां (Astrology) सर्पविद्यां देवजनविद्यां च ज्ञातवान्। वैदिकवाङ्मये चत्वारः वेदाः, षड् वेदाङ्गनि, चत्वारः उपवेदाः च प्राप्यन्ते। तत एव गणितविज्ञानस्य उत्पत्तिः विकासश्च अभवत्। विदन्ति जानन्ति विद्यन्ते भवति विन्दन्ति विचारयन्ति सर्वे मनुष्याः सत्यविद्यां यैः येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः।