Prachi Prajna (Jun 2021)
अपादानकारकविमर्शः
Abstract
महामुनिना पाणिनिना अष्टाध्याय्यां कारकस्य आलोचनायामादावेव अपादानकारकस्य आलोचना कृता। 'अपादानमुत्तराणि कारकाणि बाधन्ते' इति भाष्यकारोक्त्यनुसारं अपादानकारकस्य यथा उत्तरकारकेषु प्रसक्तिः न भवेत्तदर्थं हि प्राथम्येन सूत्रकारेण व्याख्यातम्। अपादानकारकस्य संज्ञायाम् आचार्येण ध्रुवमपायेऽपादानमिति उक्तम्। अत्र ध्रुवस्य गतियुक्तेष्वपि स्थैर्यार्थमेव स्वीकृतम्, ध्रुवत्वस्य विभागे औदासिन्यत्वात्। न खलु खगः वृक्षं त्यजति इत्यत्र वृक्षस्य विभागाश्रयात् प्रकृतधात्वर्थव्यापारानाश्रयात् अपादानत्वाप्राप्तिः त्यज्धातोः विभागावच्छिन्नक्रियार्थत्वात्। प्रकृतधात्वर्थव्यापारानाश्रयत्वेऽपि न हि अपादानस्य कारकत्वहानिः स्यात्, अपायस्य तु अवधित्वेन आधारत्वेन वा कारकसाधकत्वात्। अपादानस्य त्रयः विभागाः आचार्यैरुपदिष्टाः। ते च निर्दिष्टविषयम् उपात्तविषयम् अपेक्षितक्रियञ्चेति। अपि च बौद्ध्यः दृष्टश्चेति अपायभेदेनापि अपादानस्य द्वैविध्यं शाब्दिकैः निगदितम्। न खलु कदापि विभागस्य कर्मत्वापत्तिः स्यात्तस्य फलतावच्छेदकत्वेनोद्देश्यत्वाभावात्। अपादानकारके पञ्चमी विभक्तिः भवति। अत्र पञ्चम्यर्थोऽवधिः। ततः शाब्दिकैः वृक्षात् पर्णं पतति इत्यत्र शाब्दबोधः प्रदर्शितः, वृक्षावधिकपर्णकर्तृकं पतनमिति। नैयायिकानां पुनः वृक्षनिष्ठविभागानुकूलपतनव्यापारानुकूलकृतिमत् पर्णम् इति शाब्दबोधः। आचार्येण पतञ्जलिना तदीये महाभाष्ये अपादानकारकविधायिका सवार्तिकसप्तसूत्री प्रत्याख्याता। तत्रभवता यद्यपि एतेषां निष्प्रयोजनत्वं स्वीकृतं परन्तु दीक्षितादिना तु महाभाष्यकारस्य मतस्य हि असामञ्जस्यं प्रदर्शितमिति॥