Prachi Prajna (Dec 2022)

महाकविव्यासदेवकृत-माद्रीचरित्रस्य नवमूल्यायनकारः डॉ. दीपकचन्द्रः

  • डॉ. पौलमीरायः

Journal volume & issue
Vol. VIII, no. 15
pp. 1 – 10

Abstract

Read online

संस्कृतसाहित्यमिव बङ्गसाहित्येऽपि महाभारतस्य नवमूल्यायनं दरीदृश्यते। परन्तु एतद् नवमूल्यायनं भवति मुख्यतया महाभारते यदस्ति तद्विहाय यन्नास्ति, किन्तु यस्य प्रयोजनमासीत् अथवा यस्य उपस्थितौ महाकाव्यस्य कथा आधुनिकमनुष्याणां जीवनगाथा भवितुमर्हति, केवलं तदन्वेषणम्। विंशशतके एकविंशशतकस्य चिन्तनशैलीमवलम्ब्य बङ्गसाहित्ये डॉ. दीपकचन्द्रः धाराप्रवाहरूपेण नवानुशीलनेन महाभारतस्य नवमूल्यायनं कृतवान्। लेखकोऽयं प्रचलितविश्वासं परित्यज्य सम्पूर्णे वास्तविकाङ्गिके औचित्यानौचित्यनिरपेक्षरूपेण महाभारतकथायाः भिन्नाङ्गिके महाकविकृतमाद्रीचरित्रस्य नवमूल्यायनं कृतवान्। डॉ. चन्द्रस्य दृष्टौ महाकवेः माद्री महाभारते केवलम् एका क्रीडायन्त्री इव व्यवहृता अभवत्। पितामहभीष्मस्य व्यासदेवस्य कुन्त्याः विदुरस्य च परिकल्पितनृशंसराजनीत्यौ बलिरूपेण व्यवहृतास्ति। इतोऽपि डॉ.दीपकचन्द्रः इमां माद्रीं कुरुक्षेत्रयुद्धस्य सम्भाव्यबीजरूपेण निर्णीतवान्। अस्य लेखकस्य उपन्यासस्य विशेषता इयमस्ति यत्, इयं माद्री सन्तानहीना। एवंरूपेण नूतनतथ्यानुसन्धानेन भाविकालिकपाठकानां सम्मुखे नवचेतनायाः द्वारमुन्मोचितं भवतु इत्यासीत् डॉ. चन्द्रस्य ऐकान्तिककामना, एवं मन्ये।

Keywords