Prachi Prajna (Jun 2022)

कारकषष्ठीनिषेधसूत्राणां विमर्शः

  • Uttam Majhi

Journal volume & issue
Vol. VIII, no. 14
pp. 1 – 10

Abstract

Read online

पाणिनिना विरचिता अष्टाध्यायी ग्रन्थस्य द्वितीयाध्यायस्य तृतीयपादस्य पञ्चषष्टितमं कर्तृकर्मणोः कृति (अ०२/३/६५) सूत्रतः अधिकरणवाचिनश्च (अ०२/३/६८) यावत् इमानि चत्वारि सूत्राणि कारकषष्ठी-विधायकानि। कर्तृकर्मणोः कृति (अ० २/३/६५) सूत्रानुसारेण कृत्प्रत्ययान्तपदयोगे अनभिहितयोः कर्तरि कर्मणि च षष्ठी विधीयते। यथा- कृष्णस्य कृतिः। जगतः कर्ता कृष्णः। परन्तु कृत्प्रत्ययान्तपदयोगे कर्तरि कर्मणि च प्राप्ता षष्ठी न लोकाव्ययनिष्ठाखलर्थतृनाम् (अ० २/३/६९) इत्यनेन सूत्रेण प्रतिषिध्यते। अपि च अकेनोर्भविष्यदाधमर्ण्ययोः (अ० २/३/७०) इत्यनेन भविष्यति विहितस्य अकस्य, भविष्यति विहितस्य अधमर्ण्ये इनश्च प्रयोगे षष्ठी प्रतिषिध्यते। पाणिनीयव्याकरणे बहुविध-कृत्प्रत्ययाः सन्ति। कृद्योगे क्वचिद् षष्ठीविधीयते, क्व्चिन्निषेधः, क्वचिच्च विकल्पः। यथा- उकञ्प्रत्ययान्तपदयोगे अव्यययोगे च षष्ठी प्रतिषिध्यते। परन्तु उकञ्प्रत्ययान्तकम्धातोः योगे तोसुन्कसुन्प्रत्ययान्ताव्यययोगे च षष्ठ्यप्रतिषेधः। कृदन्तशतृप्रत्ययान्तपदयोगे षष्ठी प्रतिषिध्यते। परन्तु शतृप्रत्ययान्तद्विष्धातोः प्रयोगे षष्ठीनिषेधो विकल्पेन विधीयते। निष्ठाप्रत्ययान्तपदयोगेऽपि षष्ठी प्रतिषेधः। परन्तु क्तस्य च वर्तमाने (अ० २/३/६७) इत्यनेन वर्तमाने निष्ठाप्रत्यययोगे षष्ठ्यपि प्राप्नोति। अपि च अधिकरणवाचिनश्च (अ० २/३/६८) इत्यनेन अधिकरणवाच्ये विहितस्य क्तप्रत्ययस्य च प्रयोगे अनभिहिते कर्तरि कर्मणि च षष्ठी विधीयते। अत उक्तसूत्रद्वयं न लोकाव्ययनिष्ठाखलर्थतृनाम्(अ० २/३/६९) इति निषेधस्यापवादः। परन्तु सर्वत्र कारकषष्ठीप्रतिषेधे सति शेषे षष्ठी तु स्यादेव। तर्हि निषेधस्य प्रयोजनं किम्? कुत्र षष्ठी कर्तव्या? कुत्र प्रतिषेधः करणीयः? कुत्र विकल्पेन विधीयते? षष्ठीनिषेधसूत्रस्य तात्पर्यं कथम्? इत्येतेषु विषयेषु संशयनिवारणाय कारकप्रकरणे षष्ठीनिषेधसूत्राणां महाभाष्य-काशिकादि वैयाकरणानां मतमुल्लिख्य ‘कारकषष्ठीनिषेधसूत्राणां विमर्शः’ इति शोधप्रबन्धं प्रस्तूयते।

Keywords