Prachi Prajna (Dec 2021)

पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः

  • Avijit Ghosh

Journal volume & issue
Vol. VII, no. 13
pp. 171 – 179

Abstract

Read online

अस्य शोधनिबन्धस्य प्रस्तावनायामादौ व्याकरणशब्दस्य व्युत्पत्तिं प्रदर्श्य शब्दशास्त्रं कथं वेदाङ्गत्वम्, तस्य प्रयोजनत्वं चोल्लिखितम्। ततः परं मुनित्रयं नमस्कृत्य व्याकरणशास्त्रस्य नैके सम्प्रदायाः प्रोक्ताः। तावत् प्रस्तावनायाम् अस्य शोधनिबन्धस्य प्रतिपाद्यमानः विषयः स्पष्टीकृतः। एवं शोधनिबन्धेऽस्मिन् ‘अल्पाक्षरमसन्दिग्धमिति’ सूत्रलक्षणमुक्त्वा शोधनिबन्धस्य मुख्यविषयः चर्चितः। पाणिनितन्त्रापेक्षया चान्द्रसूत्राणि न्यूनानि भवन्ति, चान्द्रव्याकरणे केवलं लौकिकशब्दानां चर्चा विद्यते परन्तु पाणिनीयव्याकरणे न तथा। चन्द्राचार्येण स्वव्याकरणे त्रयोदशप्रत्याहारसूत्राणि समुपनिबद्धानि।आचार्येण विकल्पसूत्राणां-सूचनावसरे प्रायशः "वा" इति शब्दः प्रयुक्तः। तस्मादेव चन्द्राचार्येण काश्यप-गार्ग्य-शाकल्यादीनामाचार्याणामुल्लेख एव न कृतः। आचार्येण सूत्ररचनायां सर्वदा लघु-पर्यायवाचिनः शब्दाः चिताः। एवं वक्तुं शक्यते यत् पाणिनि-चान्द्र-व्याकरणयोः मध्ये चान्द्रव्याकरणं लघु सरलं स्पष्टं सारवच्चेति। परन्तु सर्वदा इदमवधेयं यद् आचार्यः चन्द्रगोमी पाणिनिव्याकरणं सम्यक् अधीत्य किञ्च भगवतः भाष्यकारस्य सिद्धान्तम् अभिवन्द्य अनुस़ृत्य च स्वव्याकरणं प्रणीतवान्।