Prachi Prajna (Dec 2020)

11th Issue / Vol. VI - December, 2020

  • Dr. Sugyan Kumar Mahanty

Journal volume & issue
Vol. VI, no. 11
pp. 1 – 381

Abstract

Read online

सम्पादकीयम् संस्कृतवाङ्मयम् अनुपमामूल्यरत्नानां मञ्जूषाभूतं यत्र ऐहिकामुष्मिकफलप्रदसकललोककल्याणकारिज्ञानविज्ञानराशिः मज्जति। विद्वद्भिः गवेषकैः तन्मञ्जूषावारिधौ निमज्ज्य निर्मथ्य च कल्पलतासदृशानवद्यविद्याविद्योतितानि कतिचनानाविष्कृताप्रकाशितसारभूतज्ञानामृतपूतविज्ञानरत्नानि अश्रान्तश्रमेणाविष्क्रियमाणानि सन्ति यानि ʻप्राची प्रज्ञा’ शास्त्रमञ्जूषायां विद्याविलासिनां गुणिनां गुणपक्षपातिनां च पुरस्तात् प्रस्तौति। शास्त्रमञ्जूषायाः एकादशेऽङ्के श्रुतिस्मृत्युपनिषत्पुराणागमव्याकरणज्यौतिषकाव्यसाहित्यान्यवलम्ब्य आधुनिकानि चेतिहासभुगोलमातृकाविज्ञानपुरातत्त्वादि-शास्त्रसहितानि त्रिचत्वारिंशत् शोधपत्राणि (आंग्लभाषायाम् एकादश, हिन्द्यां षट् तथा संस्कृते च षड्विंशतिः) प्रकाशितानि सन्ति। यद्यपि अत्र प्रकाशितानि सर्वाण्यपि पत्राणि शैलीदृष्ट्या, विषयविवेचनदृष्ट्या वा नवीनानि तथ्यपूर्णानि च सन्ति तथापि एतेषु महत्त्वपूर्णानि अत्र नामतो निर्दिशामि। अमेरिकादेशस्थविदुषा प्रो.बि. एन्. नरहरि-आचार्यमहोदयस्य “Revisiting the Exact Identity of Vedic Aryans” इति पत्रं विशिष्टं स्थानं बिभर्ति यत्र तेन विदुषाऽऽर्याणां भारतमूलत्वं प्रमाणीकृतम्। श्रीमतो मेघकल्याणसुन्दरमहोदयस्य “A case for a place for Yāska’s Nirukta in inclusive global histories of Technology, Science……” इत्यपि पत्रं नवीनशोधदृष्टेः बहून् आयामान् स्पृशति। श्री अंकुरकुमार-दिनेशचंद्र-पंड्यामहोदयस्य “Use of Alaṁkāras in the Meghadūtam of Kālidāsa -A Picturesque Illustration” इति पत्रेऽलङ्काराणां सचित्रोदाहरणप्रदर्शनस्य काचिन्नवा विधोपस्थापिता। श्रीमृत्युञ्जयगराँइमहोदयस्य “सर्वङ्कषाटीकायां व्याकरणालोचने मल्लिनाथस्य कतिपयानवधानता” इत्यस्मिन् पत्रं पठित्वा – “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्। सन्त: परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥” इति कालिदासोक्तिः स्मृतिपथमायाति। एवमिव डा. पी. राधाकृष्णन्-महोदयस्य “Role of Vehicle Astrology in contemporary life Expectancy”, अभिजित्-तिवारिमहोदयस्य “Indian socio-cultural contribution to ancient Kambuja as revealed in Sanskrit inscription”, माखनदासमहोदयस्य “Women in Śatakatrayam: A Discriminatory Thought of Bhartr̥hari”, डॉ.शशिकान्‍तद्विवेदिमहोदयस्य “भारतीयदर्शन में अद्वैत और अद्वय”, डा मुरलिकृष्ण टि.महोदयस्य “पञ्चमहापुरुषयोगानां प्रायोगिकमध्ययनम्”, पलाश-घोडइ महोदयस्य “ईशा वास्यमिदं सर्वम्- ईशोपनिषन्मन्त्रस्य स्वतन्त्रमेकमध्ययनम्”, डॉ.शि.त्यागराजमहोदयस्य “याज्ञवल्क्योक्तः (प्रदेशस्य) सीमाविवादः”, श्रीमत्याः शम्पा-पालमहोदयायाः “शब्दानुशासनशास्त्रे सादृश्यतत्त्वविचारः”, डा.मु.विनोदमहोदयस्य “श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च”, बी.केशवप्रपन्नपाण्डेयमहोदयस्य “श्रीमद्वरवरमुन्यनुगृहीतप्रमाणसङ्ग्रहः तत्र अर्थपञ्चकञ्च”, डा. पठान् वलि साहेब्-महोदयस्य “श्रीमद्वेङ्कटाध्वरिणः परिचयः” चेत्यादीनि प्रायः सर्वाणि पत्राणि किमपि किमपि नूतनं वैशिष्ट्यं भजन्ते। शोधपत्राणां समेषां पुनरीक्षकेभ्यः प्रो.नरसिंहचरणपण्डामहोदयेभ्यः डा.नवलतामहोदयाभ्यश्च तथा शास्त्रमञ्जूषासम्पादकेभ्यो प्रो.देवदत्त-डा.मु.विनोद-डा.शि.त्यागराजवर्येभ्योऽशेषकार्तज्ञसुमाञ्जलिं विनिवेयामि। आशासे भारतीयशास्त्रप्रकाशिकायाः शास्त्रमञ्जूषाया अयमेकादशाङ्कः नूनमेव विदुषां शोधार्थिनां चाभीप्सां पूरयिष्यतीति। सुज्ञानकुमारमाहान्तिः मुख्यसम्पादकः शास्त्रमञ्जूषा The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 11th Issue / Vol.VI – December, 2020 https://sites.google.com/site/praachiprajnaa/sastramanjusa

Keywords