Prachi Prajna (Jun 2020)
विभिन्नालङ्कारिकमतानुसारं शब्दशक्तिमूलध्वनेरनुशीलनम्
Abstract
संलक्ष्यक्रमव्यङ्ग्यध्वनिस्तावत् शब्दशक्तिमूलः अर्थशक्तिमूलश्चेति द्विधा विभक्तः । तत्र च शब्दशक्तिमूलध्वनिविचारे बहुषु आलङ्कारिकेषु मतवैभिन्यं विद्यते । अतः लेखेऽस्मिन् विभिन्नानाम् आलङ्कारिकाणां मतानि आकलय्य शब्दशक्तिमूलध्वनिः निरूपितो विद्यते । तत्रापि मुख्यतया आनन्दवर्धनः, मम्मटः, अप्पय्यदीक्षितः, पण्डितराजः जगन्नाथः इत्येतेषां मतान्यत्र निरूपितानि ।