Prachi Prajna (Jun 2021)
तामिलसाहित्ये संस्कृतस्य प्रभावः – पर्यवेक्षणमेकम्
Abstract
भारतवर्षस्य सुविशाले परिसरे एकतो यथा भारतीयार्यभाषासम्भूतानि संस्कृत-पालिप्राकृतादिसाहित्यानि संदृश्यन्ते, तथैव द्राविड़भाषावंशात् समुद्भूतानि तामिल-तेलेगु-मळयाळ-कन्नडादिभाषासाहित्यानि। संस्कृतमिव तामिलभाषापि सुप्राचीना। तामिलभाषया रचितेषु कोष-व्याकरण-सङ्गम-अनुवादसाहित्येषु संस्कृतसाहित्यस्य व्यापकतया प्रभावः अस्माभिर्लक्ष्यते ख्रीष्टपूर्वयुगात्। विशेषेण, तामिलभाषासाहित्यस्य ध्रुपदीरूपे सङ्गमसाहित्ये बहुत्रैव कालिदासादीनां महाकवीनां काव्यशैल्याः सुमहान् प्रभावो लक्ष्यते। किञ्च, प्राचीने तामिलसाहित्ये तु वैदिकसंस्कृतशब्दानां प्रभावः प्रयोगश्च लक्ष्येते। चोलराजवंशस्य शासनकाले अनुवादेन उत्तरभारतीयसाहित्यधारायाः प्रभावः स्वीकृतः कम्बर्-ओट्टकूत्तर्-पुगळेन्तिनामभिः तामिलकविभिः। एतैः कविभिस्तामिलभाषायां काव्यानि संस्कृतप्रभावभावितानि ग्रथितानि। एतदपि सत्यं केचित् संस्कृतशब्दाः तामिलभाषागर्भाः अपि अधिकाधिकाः तामिलशब्दाः संस्कृतभाषातो समुद्भूता इत्यत्र नास्ति संशयः।