Prachi Prajna (Dec 2021)
आयुर्वेदशास्त्रस्याङ्गपरिचयः
Abstract
आयुर्वेदो हि आयुर्विज्ञानसम्बद्धशास्त्रम्। अत्र हि प्राधान्येन रोगास्तन्निदानोपायाश्च वर्ण्यन्ते। यया चिकित्सापद्धत्या व्याधितो रोगमुक्तिर्भवितुमर्हति, सैव आयुर्वेदशास्त्रीया चिकित्सा। एतस्योद्देश्यस्य सिद्धये आयुर्वेदशास्त्रम् अस्माकं सकाशे नित्यं प्रयोजनीयरूपेण प्रकाशपदवीं गतम्। आयुर्वेदस्य ज्ञानलाभाय दर्शनशास्त्रस्यापि किञ्चित् साहाय्यं तथा ज्ञानम् आवश्यकं वर्तते। तदर्थं दर्शनशास्त्रस्य कानिचित् मूलसूत्राणि आयुर्वेदे सम्प्राप्यन्ते। अतः मानवमङ्गलकराणां सर्वेषां शास्त्राणामेव मूलस्रोतः आयुर्वेदे सन्निवेशितम्। मनुष्यजातेः आयुषः आलोचना आयुर्वेदस्य न केवलं मूलम् आलोच्यम्। भाषाहीनानाम् इतरप्राणिनां तथा च स्थावरजीववृक्षलतादीनाम् स्वस्थताविधानायापि आयुर्वेदशास्त्रकृद्भिः गभीरा दृष्टिः निबद्धा। अस्य प्रकृष्टोदाहरणं यथा – गजायुर्वेदः, अश्वायुर्वेदः, गवायुर्वेदः, वृक्षायुर्वेदश्चेति। वेदे कर्मज्ञानकाण्डभेदेन यादृशी विभागकल्पना विद्यते, तादृशी आयुर्वेदेऽपि दृग्गोचरीभवति। चरकसंहितायाः सूत्रस्थानं शारीरस्थानं निदानस्थानं विमानस्थानम् इन्द्रियस्थानञ्चेति ज्ञानात्ममूलकत्वम्। एवं चिकित्सास्थानं सिद्धिस्थानं कल्पस्थानं च कर्मात्ममूलकत्वम् उच्यते। आयुर्वेदस्यांशोऽपि कुत्रापि ज्ञानकर्मोभयात्मकरूपेण परिचीयते। पूर्वोत्तरखण्डभेदात् आयुर्वेदशास्त्रं द्विधा विभक्तम्। उभयोः खण्डयोः बहवः अवान्तरभेदा वर्तन्ते। साम्प्रतम् अतिमारिपरिस्थितौ प्रचारालोकविवर्जितस्य आयुर्वेदशास्त्रस्य अनुशीलनं महद्गुरुत्ववहं मनुते। मम अस्मिन् शोधबन्धे सुप्रचानीस्य आयुर्वेदशास्त्रस्य अङ्गानि पर्यालोच्यन्ते यथामति।