Prachi Prajna (Dec 2019)

आधुनिकसंस्कृतकथासाहित्ये सीतानाथाचार्यस्य योगदानम्

  • झण्टु-दासः

Journal volume & issue
Vol. 5, no. IX
pp. 95 – 104

Abstract

Read online

संस्कृतसाहित्यस्य धारा सदैव प्रवाहमाना। अधुनातने काले धारेयं नवरूपं धारयति तत् खलु आधुनिकसंस्कृतसाहित्यम्। साहित्ये विविधा विभागाः सन्ति। प्रतिविभागे उत्तरोत्तरं नव नव संयोजनं परिदृश्यते। तेषु विभागेषु अन्यतमः प्रियतमश्च कथासाहित्यविभागः। चित्तविनोदाय लघूपायेन उपदेशप्रदानाय च कथा कवेः अनवद्यप्रचेष्टा। आधुनिकभारतवर्षे कथाविभागे ये कवयः कथां रचयन्ति, तया च सहृदयानां मनोरञ्जयन्ति तेषु कविषु अन्यतमो बङ्गनिवासः सीतानाथाचार्यो महोदयः। तस्य एका मौलिकी कथास्ति। वर्तमाने अतिवास्तवसमस्याधारिते गल्पे बान्धवजनजीवने दुरवस्थां प्रकाशयति कविः अस्यां कथायाम्। बान्धवजीवनस्य दुर्विषहपरिणतिः, तस्मात् बान्धवीजनस्य पुनः मुक्तिः अत्र मुख्यविषयः। शोधलेखेऽस्मिन् कवेरस्य परिचितिः तस्य सृष्टिः, सृष्टेः नवीनता विचक्षणता मनस्तात्त्विकविश्लेषणं काव्यतात्त्विकविश्लेषणञ्चोपस्थाप्यते मया।

Keywords